हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Yuddha Kanda Sarga 99 – युद्धकाण्ड एकोनशततमः सर्गः (९९)
॥ महापार्श्ववधः ॥
महोदरे तु निहते महापार्श्वो महाबलः ।
सुग्रीवेण समीक्ष्याथ क्रोधात्संरक्तलोचनः ॥ १ ॥
अङ्गदस्य चमूं भीमां क्षोभयामास सायकैः ।
स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः ॥ २ ॥
पातयामास कायेभ्यः फलं वृन्तादिवानिलः ।
केषाञ्चिदिषुभिर्बाहून् स्कन्धांश्चिच्छेद राक्षसः ॥ ३ ॥
वानराणां सुसङ्क्रुद्धः पार्श्वं केषां व्यदारयत् ।
तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः ॥ ४ ॥
विषादविमुखाः सर्वे बभूवुर्गतचेतसः ।
निरीक्ष्य बलमुद्विग्नमङ्गदो राक्षसार्दितम् ॥ ५ ॥
वेगं चक्रे महाबाहुः समुद्र इव पर्वणि ।
आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम् ॥ ६ ॥
समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत् ।
स तु तेन प्रहारेण महापार्श्वो विचेतनः ॥ ७ ॥
ससूतः स्यन्दनात्तस्माद्विसञ्ज्ञः प्रापतद्भुवि ।
सर्क्षराजस्तु तेजस्वी नीलाञ्जनचयोपमः ॥ ८ ॥
निष्पत्य सुमहावीर्यः स्वाद्व्यूहान्मेघसन्निभात् ।
प्रगृह्य गिरिशृङ्गाभां क्रुद्धः सुविपुलां शिलाम् ॥ ९ ॥
अश्वान्जघान तरसा स्यन्दनं च बभञ्ज तम् ।
मुहूर्ताल्लब्धसञ्ज्ञस्तु महापार्श्वो महाबलः ॥ १० ॥
अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत ।
जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे ॥ ११ ॥
ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः ।
जाम्बवन्तं गवाक्षं च स दृष्ट्वा शरपीडितौ ॥ १२ ॥
जग्राह परिघं घोरमङ्गदः क्रोधमूर्छितः ।
तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसम् ॥ १३ ॥
दूरस्थितस्य परिघं रविरश्मिसमप्रभम् ।
द्वाभ्यां भुजाभ्यां सङ्गृह्य भ्रामयित्वा च वेगवान् ॥ १४ ॥
महापार्श्वस्य चिक्षेप वधार्थं वालिनः सुतः ।
स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः ॥ १५ ॥
धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत् ।
तं समासाद्य वेगेन वालिपुत्रः प्रतापवान् ॥ १६ ॥
तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुण्डले ।
स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः ॥ १७ ॥
करेणैकेन जग्राह सुमहान्तं परश्वधम् ।
तं तैलधौतं विमलं शैलसारमयं दृढम् ॥ १८ ॥
राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् ।
तेन वामांसफलके भृशं प्रत्यवपादितम् ॥ १९ ॥
अङ्गदो मोक्षयामास सरोषः स परश्वधम् ।
स वीरो वज्रसङ्काशमङ्गदो मुष्टिमात्मनः ॥ २० ॥
संवर्तयत्सुसङ्क्रुद्धः पितुस्तुल्यपराक्रमः ।
राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयम्प्रति ॥ २१ ॥
इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत् ।
तेन तस्य निपातेन राक्षसस्य महामृधे ॥ २२ ॥
पफाल हृदयं चाशु स पपात हतो भुवि ।
तस्मिन्निपतिते भूमौ तत्सैन्यं सम्प्रचुक्षुभे ॥ २३ ॥
अभवच्च महान्क्रोधः समरे रावणस्य तु ।
वानराणां च हृष्टानां सिंहनादश्च पुष्कलः ॥ २४ ॥
स्फोटयन्निव शब्देन लङ्कां साट्टालगोपुराम् ।
महेन्द्रेणेव देवानां नादः समभवन्महान् ॥ २५ ॥
अथेन्द्रशत्रुस्त्रिदिवालयानां
वनौकसां चैव महाप्रणादम् ।
श्रुत्वा सरोषं युधि राक्षसेन्द्रः
पुनश्च युद्धाभिमुखोऽवतस्थे ॥ २६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनशततमः सर्गः ॥ ९९ ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.